ટૅગ gold

  • ધનતેરસની લક્ષ્મી પૂજાથી શું લાભ થાય છે તે જાણો

    ધનતેરસની લક્ષ્મી પૂજાથી શું લાભ થાય છે તે જાણો

    Nirav Joshi, Himatnagar (M-7838880134)

    આ વખતે ધનતેરસ મંગળવારે બપોરે શરૂ થઈને બુધવાર સુધી સવાર સુધી રહેવાની છે આમ બુધવાર સવારમાં પણ લક્ષ્મી પૂજન કરવું એ ભક્તો માટે ખૂબ લાભદાયક રહેશે. લક્ષ્મી પૂજાતી કયા ફાયદા થાય છે તે નીચે મુજબ જણાવેલ છે અને મંત્રોચ્ચાર પણ કરીને જીવનને ધન્ય કરી શકાય છે.

    *🛕 पर्व ज्ञानामृत 🛕*

    *।। पावनपर्व- धनतेरस – 29 – 30 oct noon।।*

    कार्तिक माह के कृष्ण पक्ष की त्रयोदशी तिथि को धनतेरस का पर्व मनाया जाता है। इस साल २९ अक्तूबर २०२४ को धनतेरस है। इस दिन भगवान धन्वंतरि, यमराज और कुबेर देव की पूजा की जाती है। इससे साधक के धन धान्य में वृद्धि के योग बनते हैं। धार्मिक ग्रंथों के अनुसार भगवान धन्वंतरि आरोग्यता के देवता हैं, उनकी आराधना से रोगों से मुक्ति प्राप्त होती हैं।

    भारत में धनतेरस के पर्व को अलग-अलग मान्यताओं के साथ मनाया जाता है, जो सभी के जीवन में पर्व की महत्ता को अधिक बढ़ाता है। धनतेरस दिवाली उत्सव का पहला दिन होता है, जिसकी धूम भाई दूज तक देखने को मिलती हैं। हर साल की तरह इस साल भी धनतेरस की शुरुआत कई शुभ योग के साथ हो रही है।

    ज्योतिष गणना के अनुसार इस साल धनतेरस पर १०० साल बाद त्रिग्रही योग यानी त्रिपुष्कर योग, इंद्र योग, वैधृति योग और उत्तरा फाल्गुनी नक्षत्र का महासंयोग बन रहा है। इन योगों के शुभ प्रभाव के साथ कुछ चीजों की खरीदारी से साधक की आर्थिक स्थिति मजबूत हो सकती है-

    धार्मिक मान्यताओं के अनुसार धनतेरस के दिन सोना-चांदी से बने आभूषण खरीदना बेहद शुभ होता है। इससे घर में बरकत व खुशहाली बनी रहती हैं।

    धनतेरस के दिन लक्ष्मी चरण को घर लाना और भी लाभकारी माना जाता है। मान्यता है कि मां लक्ष्मी के चरणों को घर में लाना उन्हें घर में निमंत्रण देने के समान होता है। इससे देवी प्रसन्न होती हैं।

    पौराणिक मान्यताओं के अनुसार धनतेरस के दिन खड़ा धनिया खरीदना बेहद शुभ होता है। इसे घर लाने के बाद धन की देवी मां लक्ष्मी और कुबेर देवता के चरणों में अर्पित करना चाहिए। इससे व्यापार में धन लाभ के योग बनते हैं।

    मत्स्य पुराण के अनुसार धनतेरस के दिन झाड़ू खरीदने से घर में बरकत होती हैं। हिंदू धर्म में झाड़ू को मां लक्ष्मी का प्रतीक माना जाता है। इसकी खरीदारी से आर्थिक लाभ की संभावना बनी रहती हैं।

    धनतेरस के दिन मां लक्ष्मी और भगवान गणेश की मूर्ति खरीदना बेहद शुभ होता है। इससे परिवार में सुख-समृद्धि का वास बना रहता है।

    सभी स्नेहीजनों को
    पावनपर्व धनतेरस की
    हार्दिक शुभकामनाएं.!

    ॥ श्रीलक्ष्मीस्तवम् ॥
    **********************
    नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
    शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १॥

    नमस्ते गरुडारूढे कोलासुरभयङ्करि ।
    सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २॥

    सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
    सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३॥

    सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
    मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४॥

    आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
    योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५॥

    स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
    महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६॥

    पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
    परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७॥

    श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
    जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८॥

    महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
    सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९॥

    एककाले पठेन्नित्यं महापापविनाशनम् ।
    द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥

    त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
    महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११॥

    ॥ इति श्रीमहालक्ष्मीस्तवम् ॥
    ❗जय महादेव❗
    ⭕प्रश्न नहीं स्वाध्याय करें‼️

    ॥ धनलक्ष्मीस्तोत्रम् ॥
    ===============

    धनदा उवाच
    ————-
    देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।
    कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥

    देव्युवाच
    ———-
    ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
    दरिद्र दलनोपायमञ्जसैव धनप्रदम् ॥

    शिव उवाच
    ———–
    पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
    उचितं जगदम्बासि तव भूतानुकम्पया ॥

    स सीतं सानुजं रामं साञ्जनेयं सहानुगम् ।
    प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥

    धनदं श्रद्धानानां सद्यः सुलभकारकम् ।
    योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥

    पठन्तः पाठयन्तोऽपि ब्रह्मणैरास्तिकोत्तमैः ।
    धनलाभो भवेदाशु नाशमेति दरिद्रता ॥

    भूभवांशभवां भूत्यै भक्‍तिकल्पलतां शुभाम् ।
    प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥

    धनदे धनदे देवि दानशीले दयाकरे ।
    त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥

    धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते ।
    सुधनं र्धामिके देहि यजमानाय सत्वरम् ॥

    रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
    शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥

    आरक्‍त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके ।
    दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ॥

    समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
    शरच्चन्द्रमुखे नीले नील नीरज लोचने ॥

    चञ्चरीक चमू चारु श्रीहार कुटिलालके ।
    मत्ते भगवती मातः कलकण्ठरवामृते ॥

    हासाऽवलोकनैर्दिव्यैर्भक्‍तचिन्तापहारिके ।
    रूप लावण्य तारूण्य कारूण्य गुणभाजने ॥

    क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे ।
    रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ॥

    प्रयच्छ यजमानाय धनं धर्मेकसाधनम् ।
    मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥

    कृपया करुरागारे प्रार्थितं कुरु मे शुभे ।
    वसुधे वसुधारूपे वसु वासव वन्दिते ॥

    धनदे यजमानाय वरदे वरदा भव ।
    ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशङ्करे ॥

    स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
    श्रीकरे शङ्करे श्रीदे प्रसीद मयिकिङ्करे ॥

    पार्वतीशप्रसादेन सुरेश किङ्करेरितम् ।
    श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्‍तितः ॥

    सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
    धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
    भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥

    ॥ इति श्री धनलक्ष्मी स्तोत्रं सम्पूर्णम् ॥
    ❗जय महादेव❗
    ⭕प्रश्न नहीं स्वाध्याय करें‼️

    ॥ श्रीमहालक्ष्मी ललितास्तोत्रम् ॥
    =======================
    ॥ ध्यानम् ॥
    ————-
    चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
    जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥
    व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
    पाशाङ्कुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥
    दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
    तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

    ॥ श्रीदेवाः ऊचुः ॥
    ——————-
    जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
    जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥
    जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।
    जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥
    जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
    नमः सहस्त्र शीर्षायै सहस्त्रानन लोचने ॥ ३ ॥
    नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
    अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥
    अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
    रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥
    हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
    दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥
    मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
    क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥
    आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।
    दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥
    शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
    धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥
    यमाश्च नियमाश्चापि करपादनखास्तव ।
    स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥
    प्राणायामस्तव श्वासो रसना ते सरस्वती ।
    महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥
    आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
    हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥
    इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।
    नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥
    सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।
    या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥
    रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।
    त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥
    यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
    वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥
    कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
    जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥
    पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।
    नमः स्तुता प्रसनैवञ्छन्दयामास सव्दरैः ॥ १८ ॥
    ॥ फल श्रुति श्री लक्ष्मी उवाच ॥
    स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।
    विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥
    पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
    पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥
    राजभीतिः कदनानि विनश्यन्ति न संशयः ।
    भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

    ॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्रम् ॥
    ❗जय महादेव❗
    ⭕प्रश्न नहीं स्वाध्याय करें‼️

    सिद्धिलक्ष्मीस्तोत्रम् ॥
    ================
    श्री गणेशाय नमः ।
    ——————–
    ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।
    ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः ।
    ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।
    ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः ।
    ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः ।
    ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः ।
    ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ।
    ॐ सिद्धिलक्ष्मी हृदयाय नमः ।
    ॐ ह्रीं वैष्णवी शिरसे स्वाहा ।
    ॐ क्लीं अमृतानन्दे शिखायै वौषट् ।
    ॐ श्रीं दैत्यमालिनी कवचाय हुम् ।
    ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् ।
    ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ॥
    ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् ।
    त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥
    पीताम्बरधरां देवीं नानालङ्कारभूषिताम् ।
    तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्‍बालकुमारिकाम् ॥ २॥
    ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।
    विष्णुमानन्दमध्यस्थं ह्रीङ्कारबीजरूपिणी ॥ ३॥
    ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।
    ॐ श्रीं दैत्यभक्षरदां शक्‍तिमालिनी शत्रुमर्दिनी ॥ ४॥
    तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।
    ब्राह्मी च वैष्णवी भद्रा कालिका रक्‍तशाम्भवी ॥ ५॥
    आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम् ।
    सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥
    सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।
    तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥
    ॐकारपरमानन्दं क्रियते सुखसम्पदा ।
    सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥
    प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।
    तृतीये कमला प्रोक्‍ता चतुर्थे सुरसुन्दरी ॥ ९॥
    पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा ।
    सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥
    नवमे खड्गत्रिशूला दशमे देवदेवता ।
    एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥ ११॥
    एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।
    सर्वोपद्रवमुक्‍तास्ते नात्र कार्या विचारणा ॥ १२॥
    एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।
    पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥
    ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिअताः ।
    जन्मान्तरसहस्त्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥
    अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।
    धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥
    शाकिनीभूतवेतालसर्वव्याधिनिपातके ।
    राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥
    सभास्थाने श्मशाने च कारागेहारिबन्धने ।
    अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥
    ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम! ।
    स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १८॥
    या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
    शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १९॥

    ॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥
    ❗जय महादेव❗
    ⭕प्रश्न नहीं स्वाध्याय करें‼️

    श्रीलक्ष्मीनारायणकवचम् ॥

    श्रीगणेशाय नमः ।
    श्रीभैरव उवाच ।
    अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
    कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥

    श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
    रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥

    यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् ।
    यस्य धारणमात्रेण ब्रह्मा लोकपितामहः ॥ ३॥

    ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः ।
    सूर्यस्तेजोनिधिर्देवि चन्द्रर्मास्तारकेश्वरः ॥ ४॥

    वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः ।
    कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥ ५॥

    यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् ।
    जघान रावणादींश्च किं वक्ष्येऽहमतः परम् ॥ ६॥

    कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः ।
    त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥ ७॥

    रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।
    भोगापवर्गसिद्ध्यर्थं विनियोग इति स्मृतः ॥ ८॥

    ॐ अस्य श्रीलक्ष्मीनारायणकवचस्य शिवः ऋषिः ,
    त्रिष्टुप् छन्दः , श्रीलक्ष्मीनारायण देवता ,
    श्रीं बीजं , ह्रीं शक्तिः , ॐ कीलकं ,
    भोगापवर्गसिद्ध्यर्थे पाठे विनियोगः ।
    अथ ध्यानम् ।
    पूर्णेन्दुवदनं पीतवसनं कमलासनम् ।
    लक्ष्म्या श्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ ९॥

    अथ कवचम् ।
    ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।
    ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥ १०॥

    ह्सौः नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः ।
    ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥ ११॥

    श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः ।
    लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥ १२॥

    नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः ।
    नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥ १३॥

    अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः ।
    उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥ १४॥

    लृं लॄं एं ऐं पातु पृष्ठं ह्सौः लक्ष्मीनृसिंहकः ।
    ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥ १५॥

    कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभान्तकः ।
    चं छं जं झं पातु शिश्र्नं लक्ष्मी लक्ष्मीश्वरः प्रभुः ॥ १६॥

    टं ठं डं ढं कटिं पातु नारायणाय नायकः ।
    तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥ १७॥

    पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः ।
    यं रं लं वं पातु जङ्घे ह्सौः लक्ष्मीगदाधरः ॥ १८॥

    शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् ।
    ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥ १९॥

    ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः ।
    इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥ २०॥

    यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् ।
    वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥ २१॥

    उत्तरे धनदः पायादैशान्यामीश्वरोऽवतु ।
    वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजाङ्किताः ॥ २२॥

    सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः ।
    अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावताच्च माम् ॥ २३॥

    दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः ।
    प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥ २४॥

    दामोदरोऽवतात् सायं निशादौ नरसिंहकः ।
    सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्यात् त्रिविक्रमः ॥ २५॥

    अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः ।
    रणे राजकुले द्युते विवादे शत्रुसङ्कटे
    ॐ ह्रीं ह्सौः ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥ २६॥

    ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवः
    ह्रींह्रींह्रींहह्हाह्सौः ह्सह्सौः वह्नेर्वतान्माधवः ।
    ह्रींह्रींह्रीञ्जलपर्वताग्निभयतः पायादनन्तो विभुः
    श्रींश्रींश्रींशशशाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥ २७॥

    इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
    लक्ष्मीनारायणस्येष्टं चतुर्वर्गफलप्रदम् ॥ २८॥

    सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् ।
    लक्ष्मीसंवननं तत्वं परमार्थरसायनम् ॥ २९॥

    मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् ।
    दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥ ३०॥

    स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः ।
    त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥ ३१॥

    स याति परमं धाम वैष्णवं वैष्णवेश्वरः ।
    महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥ ३२॥

    आनन्दपूरितस्तूर्णं लभेद् मोक्षं स साधकः ।
    गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥ ३३॥

    पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।
    धारयेद्गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥ ३४॥

    रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् ।
    वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३५॥

    सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः ।
    गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ ३६॥

    वर्णलक्षपुरश्चर्या फलमाप्नोति साधकः ।
    बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥ ३७॥

    विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ।
    सर्वागमरहस्याढ्यं तत्वात् तत्वं परात् परम् ॥ ३८॥

    अभक्ताय न दातव्यं कुचैलाय दुरात्मने ।
    दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥ ३९॥

    महाचीनपदस्थाय दातव्यं कवचोत्तमम् ।
    गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् ।
    वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥ ४०॥

    ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये लक्ष्मीनारायणकवचं सम्पूर्णम् ॥

    शुभ दीपावली🌷💡🕉️🇮🇳
    ❗जय महादेव❗
    ⭕प्रश्न नहीं, स्वाध्याय करें‼️